Monday, April 1, 2019

॥ प्रातः स्मरामि ॥




प्रातः स्मरामि भवभीतिहरं सुरेशं
    गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं
    संसाररोगहरमौषधमद्वितीयम् ॥ १॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
    सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोऽभिरामं
    संसाररोगहरमौषधमद्वितीयम् ॥ २॥

प्रातर्भजामि शिवमेकमनन्तमाद्यं
    वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं षडभावशून्यं
    संसाररोगहरमौषधमद्वितीयम् ॥ ३॥

No comments:

Post a Comment